2024-05-10

(चि॰)

वैशाखः-02-03 ,वृषभः-रोहिणी🌛🌌 , मेषः-अपभरणी-01-27🌞🌌 , माधवः-02-21🌞🪐 , शुक्रः

  • Indian civil date: 1946-02-20, Islamic: 1445-11-02 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►26:50!; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रोहिणी►10:45; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►12:04; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलम्►15:29; गरजा►26:50!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.87° → 6.61°), गुरुः (-6.39° → -5.66°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.19° → 26.15°), शनिः (62.47° → 63.36°), मङ्गलः (42.65° → 42.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►18:36; मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:48-12:05🌞-18:22🌇
चन्द्रः ⬆07:30 ⬇20:46
शनिः ⬇14:03 ⬆02:10*
गुरुः ⬆06:12 ⬇18:48
मङ्गलः ⬇15:24 ⬆03:18*
शुक्रः ⬇17:53 ⬆05:23*
बुधः ⬇16:31 ⬆04:14*
राहुः ⬇15:50 ⬆03:38*
केतुः ⬆15:50 ⬇03:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:41-17:32; सायाह्नः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—10:31-12:05; यमघण्टः—15:13-16:48; गुलिककालः—07:22-08:56

  • शूलम्—प्रतीची (►10:49); परिहारः–गुडम्

उत्सवाः

  • अक्षय-तृतीया, अनध्यायः, कृतयुगादिः, चन्दन-पूजा, देवी-पर्व-२, बलराम-जयन्ती, मङ्गैयर्क्करचियार् नायऩ्मार् (५०) गुरुपूजै, राज-मातङ्गी-जयन्ती

अक्षय-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम्।
नारायणं पूजयेत पुष्पधूपविलेपनैः।
वैशाखे शुक्लपक्षे च तृतीयायां तथैव च।
गङ्गातोयैर्नरः स्नात्वा मुच्यते सर्वकिल्बिषैः।
तस्यां कार्यो यवैर्होमो यवैर्विष्णुं समर्चयेत्।
यवान्दद्याद् द्विजातिभ्यः प्रयतः प्राशयद्यवान्।
कृष्ण उवाच
बहुनाऽत्र किमुक्तेन किं बह्वक्षरमालया।
वैशाखस्य सितामेकां तृतीयामक्षयां शृणु॥१॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित् तत्सर्वं स्यादिहाक्षयम्॥२॥
आदिः कृतयुगस्येयं युगादिस्तेन कथ्यते।
सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी॥३॥
पुरा महोदये पार्थ वणिगासीत्स निर्धनः।
प्रियंवदः सत्यवृत्तिर्देवब्राह्मणपूजकः॥४॥
पुण्याख्यानैकचित्तोऽभूत्कुटुम्बव्याकुलोऽपि सन्।
तेन श्रुता वाच्यमाना तृतीया रोहिणीयुता॥५॥
यदा स्याद् बुधसंयुक्ता तदा सा सुमहाफला।
तस्यां यद्दीयते किञ्चिदक्षयं स्यात्तदेव हि॥६॥
इति श्रुत्वा स गङ्गायां सन्तर्प्य पितृदेवताः।
गृहमागत्य करकान्सान्नानुदकसंयुतान्॥७॥
अन्नपूर्णान् बृहत्कुम्भाञ्जलेन विमलेन च।
यवगोधूमचणकान्सक्तून्दध्योदनं तथा॥८॥
इक्षुक्षीरविकारांश्च सहिरण्यांश्च शक्तितः।
शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक्॥९॥
भार्यया वार्यमाणोऽपि कुटुम्बासक्तचित्तया।
तावत्तस्थौ स्थिरे सत्त्वे मत्वा सर्वं विनश्वरम्॥१०॥
धर्मासक्तमतिः पार्थे कालेन बहुना ततः।
जगाम पञ्चत्वमसौ वासुदेवमनुस्मरन्॥११॥
ततः स क्षत्रियो जातः कुशावत्यां युधिष्ठिर।
बभूव चाक्षया तस्य समृद्धिर्धर्मसंयुता॥१२॥
इयाज स महायज्ञैः समाप्तवरदक्षिणैः।
स ददौ गोहिरण्यादि दानान्यन्यान्यहर्निशम्॥१३॥
बुभुजे कामतो भोगान्दीनान्धान्पूरयद्धनैः।
तथाऽप्यक्षयमेवास्य क्षयं याति न तद्धनम्॥१४॥
श्रद्धापूर्वं तृतीयायां दत्तं च विभवं विना।
इत्येतत्ते समाख्यातं श्रूयतामत्र यो विधिः॥१५॥
तृतीयां च समासाद्य स्नात्वा सन्तर्प्य देवताः।
एकभक्तं तदा कुर्याद्वासुदेवं प्रपूजयेत्॥१६॥
उदकुम्भान्सकरकान्सान्नान्सर्वरसैः सह।
ग्रैष्मिकं सर्वमेवात्र सस्यं दाने प्रशस्यते॥१७॥
छत्रोपानत्प्रदानं च गोभूकाश्वनवाससाम्।
यद्यदिष्टतमं चान्यत्तद्देयमविशङ्कया॥१८॥
एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुमिच्छसि।
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ॥१९॥
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं
तेनाक्षयेति कथिता मुनिभिस्तृतीया।
उद्दिश्य दैवतपितॄन्क्रियते मनुष्यैस्-
तच्चाक्षयं भवति भारत सर्वमेव॥२०॥

तस्यां कार्यो यवैर्यज्ञो यवैर्विष्णुं प्रपूजयेत्।
यवान् दद्याद् द्विजातिभ्यः प्रयतः प्राशयेद् यवान्॥
पूजादि विधायातिशयिताक्षययवदानजन्यफलप्राप्तिकामनया यवान् दद्यात्।
तद् वाक्यमेतत् फलानुसारेणोहयं ( करणीयम् )। द्रव्यान्तरदानेऽपि
अक्षयफलप्राप्तिकामनया इत्यादिवाक्यम् । नारदीये-
वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ।
गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः॥
ओमद्येत्यादि सर्वकिल्बिषविमुक्तिकामो गङ्गायां स्नानमहं करिष्ये, इति गझास्नानसङ्कल्पः।
कौशिकीस्नानप्रकरणे, रामायणे आदिकाण्डे-
वैशाखे मासि काकुत्स्थ तृतीया या भवेत् तिथिः।
शुक्लपक्षे नरः स्नात्वा अश्वमेधफलं लभेत्॥
कृत्तिका ऋक्षसंयुक्ता राका या कार्तिके भवेत्।
कोकामुखे तु कौशिक्यां स्नात्वा स्वर्गे वसेन्नरः॥
ॐ अद्येत्यादि अश्वमेधफलप्ताप्तिकामः कौशिक्यां स्नानमहं करिष्ये इति तृतीयायां सङ्कल्पः।

Details

अनध्यायः

Anadhyayana on account of yugādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥
हारीतः—
महानवम्यां द्वादश्यां भरण्यामपि पर्वसु।
तथाऽऽक्षयतृतीयायां शिष्यान्नाध्यापयेद् द्विजः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

बलराम-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jayanti of Balarama.

वैशाख शुक्लपक्षे तृतीयायां हलायुधः।
सङ्कर्षणो बलो जज्ञे रामः कृष्णाग्रजो हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

चन्दन-पूजा

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

यः करोति तृतीयायां कृष्णं चन्दन-भूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमंन्दिरम्॥
यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्।

Details

देवी-पर्व-२

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कृतयुगादिः

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

मङ्गैयर्क्करचियार् नायऩ्मार् (५०) गुरुपूजै

Observed on Rōhiṇī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Mangaiyarkarasiyar, the 50th of the Nayanmars was the wife of another Nayanmar, Ninra Seer Nadumara Nayanmar, who was earlier known as Koon Pandyan, the hunchbacked Pandyan king of Madurai. Tiru Jnana Sambandar, a revered Nayanmar, arrived in Madurai and was invited into the city by Kulacchirai Nayanmar. Despite attempts by the Jains to harm Sambandar, his divine singing miraculously cured the king of his hunchback and alleviated his pain, leading to his return to Shaivism. Following his conversion, the king conquered northern kings at Tirunelveli, spreading Shaivism in those regions with the support of his wife. Both he and Mangayarkarasiyar deeply revered Sambandar and their dedication to their guru and Shaivism ultimately brought them divine grace.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

राज-मातङ्गी-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Goddess Raja Matangi is 9th of the Dasha Maha Vidyas.

Details

  • References
    • Kielhorn (1897); Ashtanga Panchangam
  • Edit config file
  • Tags: Dashamahavidya LessCommonFestivals