2024-11-13

(चि॰)

कार्त्तिकः-08-12 ,मीनः-रेवती🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-22🌞🪐 , बुधः

  • Indian civil date: 1946-08-22, Islamic: 1446-05-11 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►13:01; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►27:09!; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वज्रम्►15:21; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►13:01; कौलवम्►23:24; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (108.41° → 109.15°), बुधः (-22.13° → -22.26°), शुक्रः (-40.38° → -40.56°), शनिः (-111.57° → -110.56°), गुरुः (151.74° → 152.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-11:53🌞-17:35🌇
चन्द्रः ⬆15:33 ⬇04:16*
शनिः ⬆13:39 ⬇01:25*
गुरुः ⬇08:14 ⬆19:27
मङ्गलः ⬇11:16 ⬆22:37
शुक्रः ⬆09:08 ⬇20:22
बुधः ⬆07:47 ⬇19:04
राहुः ⬆14:50 ⬇02:51*
केतुः ⬇14:50 ⬆02:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:36; साङ्गवः—09:01-10:27; मध्याह्नः—11:53-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:56; प्रातः-मु॰2—06:56-07:41; साङ्गवः-मु॰2—09:13-09:58; पूर्वाह्णः-मु॰2—11:30-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:20; मध्यरात्रिः—22:37-01:08

  • राहुकालः—11:53-13:18; यमघण्टः—07:36-09:01; गुलिककालः—10:27-11:53

  • शूलम्—उदीची (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अनध्यायः, गोपद्म-व्रत-समापनम्, चातुर्मास्यव्रत-समापनम्, तुलसी-विवाहः, द्विदल-व्रत-समापनम्, प्रदोष-व्रतम्, प्रबोधोत्सवः, बृन्दावन-द्वादशी, मन्वादिः-(स्वारोचिषः-[२]), याज्ञवल्क्य-जयन्ती

अनध्यायः

Anadhyayana on account of viṣṇu-prabōdhōtsava. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

बृन्दावन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चातुर्मास्यव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

द्विदल-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अनिरुद्ध नमस्तुभ्यं द्विदलाख्यव्रतेन च।
मत्कृतेनाश्विने मासे प्रीत्यर्थं फलदो भव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

गोपद्म-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(स्वारोचिषः-[२])

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

प्रबोधोत्सवः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

प्रदोष-व्रतम्

  • 17:35→19:10

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

तुलसी-विवाहः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

कनकस्य सुता पूर्वमेकादश्यां किशोरिका।
चकार भक्तितः सायं तुलस्युद्वाहजं विधिम्॥९॥
तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत् सुलोचना।
तस्मात् सायं प्रकर्तव्यस्तुलस्युद्वाहजो विधिः॥१०॥
अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः॥
विधिं तस्य प्रवक्ष्यामि यथा साङ्गा क्रिया भवेत॥११॥
विष्णोस्तु प्रतिमां कुर्यात् पलस्य स्वर्णजां शुभाम्।
तदर्धार्धं तदर्धार्धं यथाशक्त्या प्रकल्पयेत्॥१२॥
प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः।
तत उत्थापयेद् देवं पूर्वोक्तैश्च स्तवादिभिः॥१३॥
उपचारैः षोडशभिः पूजयेत् पुरुषोक्तिभिः।
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत्॥१४॥
पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत्।
वेदवाद्यादिनिर्घोषैर्विष्णुमूर्तिं समानयेत्॥१५॥
तुलसीनिकटे सा तु स्थाप्या चान्तर्हिता पटैः।
आगच्छ भगवन्देव अर्चयिष्यामि केशव॥१६॥
तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव॥
दद्यात् त्रिवारमर्घ्यं च पाद्यं विष्टरमेव च॥१७॥
तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत्।
ततो दधि घृतं क्षीरं कांस्यपात्रपुटीकृतम्॥१८॥
मधुपर्कं गृहाण त्वं वासुदेव नमोऽस्तु ते।
हरिद्रालेपानाभ्यङ्गकार्यं सर्वं विधाय च॥१९॥
गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः।
पृथक्पृथक्तथा कार्यौ सम्मुखौ मङ्गलं पठेत्॥२०॥
ईषद्दृश्ये भास्करे तु सङ्कल्पं तु समुच्चरेत्।
स्वगोत्रप्रवरानुक्त्वा तथा त्रिपुरुषादिकम्॥२१॥
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक।
इमां गृहाण तुलसीं विवाहविधिनेश्वर॥२२॥
पार्वतीबीजसम्भूतां वृन्दाभस्मनि संस्थिताम्।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम्॥२३॥
पयोघटैश्च सेवाभिः कन्यावद् वर्धिता मया।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः॥२४॥
एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः।
रात्रौ जागरणं कुर्याद् विवाहोत्सवपूर्वकम्॥२५॥
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत्।
वह्निसंस्थापनं कृत्वा द्वादशाक्षरविद्यया॥२६॥
पायसाऽऽज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरं शतम्।
ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः।
आचार्यं च समभ्यर्च्य होमशेषं समापयेत्॥२७॥
चतुरो वार्षिकान्मासान्नियमो येन यः कृतः।
कथयित्वा द्विजेभ्यस्तत्तथाऽन्यत्परिपूरयेत्॥२८॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥२९॥
रेवतीतुर्यचरणे द्वादशीसंयुते नरः।
न कुर्यात् पारणं कुर्वन्व्रतं निष्फलतां नयेत्॥३०॥
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत्॥
चातुर्मास्येऽथवा चोर्जे ब्राह्मणेभ्यः समर्पयेत्।
ततः सर्वं समश्नीयाद् यद् यत् त्यक्तं व्रते स्थितम्॥३१॥
दम्पतिभ्यां सहैवाऽत्र भोक्तव्यं च द्विजैः सह॥३२॥
ततो भुक्त्युत्तरं यानि गलितानि दलानि च।
तानि भुक्त्वा तुलस्याश्च स्वयं पापैः प्रमुच्यते॥३३॥
इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा।
भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति॥३४॥
एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु।
ज्ञेय उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः॥३५॥
ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः।
तुलसीवासुदेवौ च कृतकृत्यो भवेत् ततः॥३६॥
ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः।
वैकुण्ठं गच्छ भगवन्स्तुलसीसहितः प्रभो।
मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा॥३७॥
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर।
यत्र ब्रह्मादयो देवास्तत्र गच्छ जनार्दन॥३८॥
एवं विसृज्य देवेशमाचार्याय प्रदापयेत्।
मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः॥३९॥
प्रतिवर्षं तु यः कुर्यात् तुलसीकरपीडनम्।
भक्तिमान् धनधान्यैः स युक्तो भवति निश्चितम्।
इहलोके परत्रापि विपुलं च यशो लभेत्॥४०॥
—श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नामैकत्रिंशोऽध्यायः

Details

याज्ञवल्क्य-जयन्ती

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataram of yājñavalkya maharṣi happened on kārttika shukla dvādaśī in ṣatabhiṣak nakṣatram/dhanurlagnam.

वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम्।
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम्॥
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्।
आनन्दनिलयं वन्दे योगानन्दमुनीश्वरम्॥

Details