2022-07-17

आषाढः-04-19 , कुम्भः-शतभिषक्🌛🌌 , कर्कटः-पुनर्वसुः-04-01🌞🌌 , शुचिः-04-27🌞🪐 , भानुः

  • Indian civil date: 1944-04-26, Islamic: 1443-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:23; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►17:45; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►10:49; कौलवः►21:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.25° → -1.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.71° → 25.45°), शनैश्चरः (150.55° → 151.56°), मङ्गलः (76.32° → 76.60°), गुरुः (105.96° → 106.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—09:26; चन्द्रोदयः—22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • सर्वनदी-रजस्वला

सर्वनदी-रजस्वला

Observed on day 1 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals