2022-08-30

भाद्रपदः-06-03 , कन्या-हस्तः🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-08, Islamic: 1444-02-02 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:33; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः►23:47; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►26:48*; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►23:59; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►27:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-164.12° → -163.08°), मङ्गलः (91.16° → 91.58°), गुरुः (149.58° → 150.65°), बुधः (-27.07° → -26.92°), शुक्रः (14.24° → 13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:23; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्, नारायणरावो हतः #२४९, मन्वादिः-(तामसः-[४]), विपत्तार-गौरी-व्रतम्, सायन-वैधृतिः, सुखा-अङ्गारक-चतुर्थी, हरितालिका-व्रतम्

हरितालिका-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Prātaḥ/paraviddha).

Puja of Gauri-Maheshwara on Vrishabham, esp. for girls desirous of getting married, like Goddess Parvati sought the hand of Maheshwara, as Himavan’s daughter.

भाद्रस्य कजली कृष्णा शुक्ला च हरितालिका।

Details

मन्वादिः-(तामसः-[४])

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

नारायणरावो हतः #२४९

Event occured on 1773-08-30 (gregorian).

In an event that shook the marATha empire, the peshva nArayaNa rAv, brother of the great mAdhavarAv and vishvAs-rAv, was killed on the last day of gaNapati festival (Ananta Chaturdashi) in puNe.

Context

raghunAth rAv, though having military talent, was a power-hungry unscrupulous person with traitorous tendencies. He had earlier tried to usurp the throne from mAdhav rAv, only to be outmaneouvered and subdued with great difficulty by that noble peshva. With his death, raghoba was back at his old game.

Events

According to popular legend, Raghunathrao had sent a message to Sumer Singh Gardi to fetch Narayanrao using the Marathi word dharaa (धरा) or ‘hold’ (actual phrase in Marathi - " नारायणरावांना धरा"/“Narayanrao-ana dhara”). This message was intercepted by his wife Anandibai who changed a single letter to make it read as maaraa (मारा) or ‘kill’ . The miscommunication led the Gardis to chase Narayanrao, who, upon hearing them coming, started running towards his uncles' residence screaming, “Kaka! Mala Vachva!!” (“Uncle! Save me!"). The Gardis followed Narayanrao to his uncle’s chamber and the menial Tulaji Pawar pulled him while Sumer Singh Gardi cut him down. At the scene, a total of 11 persons were killed. Historian Sardesai writes that these 11 victims included seven brahmins (including Narayanrao), two Maratha servants and two maids.

Aftermath

The Chief Justice, Ram Shastri Prabhune was asked to conduct an investigation into the incident, and Raghunathrao, Anandibai and Sumer Singh Gardi were all prosecuted in absentia. Although Raghunathrao was acquitted, Anandibai was declared an offender and Sumer Singh Gardi the culprit. Sumer Singh Gardi died mysteriously in Patna, Bihar in 1775, and Anandibai performed Hindu rituals to absolve her sins. Kharag Singh and Tulaji Pawar were handed over by Hyder Ali back to the government and they were tortured to death.

As the result of the murder, senior ministers and generals of the Maratha confederacy formed a regency council , known as the “Baarbhai Council”, to conduct of the affairs of the state in the name of his soon to be born son, mAdhavarAv 2.

Details

सायन-वैधृतिः

  • 09:41→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

सुखावहा च सुसुखा सौभाग्यकरणी परम्॥११॥
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा॥१२॥
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम्।
परत्र फलदं वीर दिव्यरूपप्रदायकम्॥१३॥
हसितं ललितं चोक्तं चेष्टितं च सुखावहम्।
सविलासभुजक्षेपश्चङ्क्रमश्चेष्टितं शुभम्॥१४॥
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह।
कृत्येन पूजिते चेशे विघ्नेशे शिवयोः सुते॥१५॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्या वै भवेत्।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च॥१६॥
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ॥१७॥
मेदिन्यां स प्रयत्नेन सुखेन विधृतोऽनया।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः॥१८॥
ममाङ्गतो यथोद्पन्नस्तस्मादङ्गारको ह्ययम्।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम्॥१९॥
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः॥२०॥
उपवत्स्यति ना राजन्नारी वा नान्यमानसा।
पूजयेच्च कुजं भक्त्या रक्तपुष्पविलेपनैः॥२१॥
गणेशं प्रथमं भक्त्या योऽर्चयेच्छ्रद्धयान्वितः।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम्॥२२॥
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत॥२३॥
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम्॥२४॥
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत्।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम्॥२५॥
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत्।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः॥२६॥
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम्।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः॥२७॥
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।
तडागेषु च सर्वेषु मानसादिसरःसु च॥२८॥
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै।
ध्यायन् पठन्निमं मन्त्रं ततः स्नानं समाचरेत्॥२९॥
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत्।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित्॥३०॥
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम्।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता॥३१॥
वन्दिता दह तत्सर्वं दुरितं यन्मया कृतम्॥३२॥
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ।
शमी शमय मे पापं नूनं वेत्सि धराधरान्॥३३॥
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम्।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे॥३४॥
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम्।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत्॥३५॥
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव॥३६॥
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः॥३७॥
एवं मौनेन चाऽऽगत्य ततो वह्निगृहं व्रजेत्।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत्।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः॥३८॥
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा॥३९॥
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च॥४०॥
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप।
खादिरैः सुसमिद्भिस्तु चाऽऽज्यदुग्धैर्यवैस्तिलैः॥४१॥
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः।
हुत्वाऽऽहुतीस्ततो वीर देवं संस्थापयेत्क्षितौ॥४२॥
सौवर्णं राजतं वाऽपि शक्त्या दारुमयं नृप।
देवदारुमयं वाऽपि श्रीखण्डचन्दनैरपि॥४३॥
ताम्रे पात्रे रौप्यमये चाऽऽज्यकुङ्कुमकेसरैः।
अन्यैर्वा लोहितैर्वाऽपि पुष्पैः पत्रैः फलैरपि।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्॥४४॥
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम्॥४५॥
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेसरैः।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत्॥४६॥
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते॥४७॥
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान्।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा॥४८॥
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप।
वित्तशाठ्यं हि कुर्वाणो नामुत्र फलभाग्भवेत्॥४९॥
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु॥५०॥
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः॥५१॥
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम्॥५२॥
सौवर्णं तु कुजं कृत्वा सविनायकमादरात्।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च॥५३॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा॥५४॥
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च॥५५॥
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम्।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम्॥५६॥
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप।
वाचकाय महाबाहो गुणिने श्रेयसे नृप॥५७॥
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत॥५८॥
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम्।
प्रभया रविकल्पं च समीरबलसंश्रितम्॥५९॥
ईदृग्रूपं समाप्येह याति भौमसदो नृप।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप॥६०॥
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः॥।६१॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the ninth day of the festival.

Details

विपत्तार-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details